लोगों की राय

भारतीय जीवन और दर्शन >> रघुवंश महाकाव्यम्

रघुवंश महाकाव्यम्

जनार्दन शास्त्री पाण्डे

प्रकाशक : मोतीलाल बनारसीदास पब्लिशर्स प्रकाशित वर्ष : 2004
पृष्ठ :51
मुखपृष्ठ : पेपरबैक
पुस्तक क्रमांक : 11308
आईएसबीएन :8120825624

Like this Hindi book 0

षष्ठः सर्गः


स तत्र मञ्चेषु मनोज्ञवेषान् सिंहासनस्थानुपचारवत्सु।
वैमानिकानां मरुतापमश्यदाकृष्टलीलान् नरलोकपालान्॥१॥

रतगृहीतानुनयेन कामं प्रत्यर्पतस्वाङ्गमिवेश्वरेण।
काकुत्स्थमालोकयतां नृपाणां मनो वभूवेन्दुमतीनिराशम्॥२॥

वैदर्भनिदिष्टमसौ कुमारः क्लुप्तेन सोपानपथेन मञ्चम्।
शिलाविभौमृगराजशावस्तुङ्ग नगोत्संगममिवारुरोह ॥३॥

परार्थ्यवर्णास्तरणोपपन्नमासेदिवान् रत्नवदासनं सः।
भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयणा गुहेन ॥४॥

तासु श्रिया राजपरम्परासु प्रभाविशेषोदयदुनिरीक्ष्यः।
सहस्रधाऽऽत्मा व्यरुचद् विभक्तः पयोमुचां पक्तिषु विद्युतेव॥५॥

तेषां महार्हासनसंस्थितानामुदारनेपथ्यभृतां स मध्ये।
रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः ॥६॥

नेत्रव्रजा: पौरजनस्य तस्मिन् विहाय सर्वान् नृपतीन् निपेतुः।
मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः॥७॥

अथ स्तुते वन्दिभिरन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके।
संचारिते चागुरुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः॥८॥

पुरोपकण्ठोपवनाश्रयाणां कलापिनामुद्धतनृत्तहेतौ।
प्रध्मातशङ्ख परितो दिगन्ताँस्तुर्यस्वने मूच्र्छति मङ्गलार्थे॥९॥

मनुष्यवाह्यं चतुरस्रयानमध्यास्य कन्या परिवारशोभि।
विवेश मञ्चान्तरराजमार्ग पतिवरा क्लृप्तविवाहवेषा॥१०॥

...Prev | Next...

<< पिछला पृष्ठ प्रथम पृष्ठ अगला पृष्ठ >>

    अनुक्रम

  1. प्रथमः सर्गः
  2. द्वितीयः सर्गः
  3. तृतीयः सर्गः
  4. चतुर्थः सर्गः
  5. पञ्चमः सर्गः
  6. षष्ठः सर्गः
  7. सप्तमः सर्गः
  8. अष्टमः सर्गः
  9. नवमः सर्गः
  10. दशमः सर्गः
  11. एकादशः सर्गः
  12. द्वादशः सर्गः
  13. त्रयोदशः सर्गः

अन्य पुस्तकें

लोगों की राय

No reviews for this book

A PHP Error was encountered

Severity: Notice

Message: Undefined index: mxx

Filename: partials/footer.php

Line Number: 7

hellothai